संस्कृत व्यवहार साहस्री

SanskAI

Administrator
Staff member

शिष्टाचारः ( Common formulas or Good practices)​

  • हरिः ॐ ! = Hello !
  • सुप्रभातम् |* = Good morning.
  • नमस्कारः/नमस्ते । = Good afternoon/Good evening.
  • शुभरात्रिः । = Good night.
  • धन्यवादः । = Thank You.
  • स्वागतम् । = Welcome.
  • क्षम्यताम् । = Excuse/Pardon me.
  • चिन्ता मास्तु । = Dont worry.
  • कृपया । = Please.
  • पुनः मिलामः । = Let us meet again.
  • अस्तु । = All right./O.K.
  • श्रीमन् । = Sir.
  • मान्ये/आर्ये । = Lady.
  • साधु साधु/समीचीनम् । = Very good.
 

SanskAI

Administrator
Staff member

मेलनम् ( Meeting )​

  • भवतः नाम किम् ? = What is your name? (masc.)
  • भवत्याः नाम किम् ? = What is your name? (fem.)
  • मम नाम ‌.....। = My name is .....
  • एषः मम मित्रं .....। = This is my friend .....
  • एतेषां विषये श्रुतवान् = I have heard of them
  • एषा मम सखी .....। = This is my friend ..... (fem.).
  • भवान् किं (उद्योगं) करोति ? = What do you do? (masc.)
  • भवती किं (उद्योगं) करोति? = What do you do? (fem.)
  • अहं अध्यापकः अस्मि । = I am a teacher (masc.)
  • अहम अध्यापिका अस्मि । = I am a teacher.(fem.)
  • अधिकारी/अधिकारिणी = Officer;
  • टङ्कलेखकः/टङ्कलेखिका = Typist
  • तंत्रज्ञः/तन्त्रज्ञा = Engineer;
  • प्राध्यापकः/प्राध्यापिका = Professor
  • लिपिकः/लिपिका = Clerk
  • न्यायवादी/न्यायवादिनी = lawyer
  • विक्रयिकः/विक्रयिका = Salesman;
  • व्याख्याता/व्याख्यात्री = Lecturer
  • अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.
  • कार्यालये = in an office;
  • महाविद्यालये = in a college
  • वित्तकोषे = in a bank;
  • चिकित्सालये = in a hospital
  • माध्यमिकशालायां = in a high school;
  • यन्त्रागारे = in a factory
  • भवान्/भवती कस्यां कक्ष्यायां पठति ? = Which class are you in?
  • अहं नवमकक्ष्यायां पठामि । = I am in Std.IX.
  • अहं .कक्ष्यायां पठामि । = I am in I/II/III/B.Sc. class.
  • भवतः ग्रामः ? = Where are you from?
  • मम ग्रामः .....। = I am from .....
  • कुशलं वा ? = How are you ?
  • कथमस्ति भवान् ? = How are you ?
  • गृहे सर्वे कुशलिनः वा ? = Are all well at home?
  • सर्वं कुशलम् । = All is well.
  • कः विशेषः ? ( का वार्ता ?) = What news?
  • भवता एव वक्तव्यम् । = You have to say.
  • कोऽपि विशेषः ? = Anything special?
  • भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?
  • अहं शालातः, गृहतः, ...तः = I am coming from school/house/....
  • भवान्/भवती कुत्र गच्छति ? = Where are you going?
  • भवति वा इति पश्यामः । = Let us see if it can be done.
  • ज्ञातं वा ? = Understand ?
  • कथं आसीत् ? = How was it?
  • अङ्गीकृतं किल ? = Agreed?
  • कति अपेक्षितानि ? = How many do you want?
  • अद्य एव वा ? = Is it today?
  • इदानीं एव वा ? = Is it going to be now?
  • आगन्तव्यं भोः । = Please do come.
  • तदर्थं वा ? = Is it for that ?
  • तत् किमपि मास्तु । = Don't want that.
  • न दृश्यते ? = Can't you see?
  • समाप्तं वा ? = Is it over?
  • कस्मिन् समये ? = At what time?
  • तथापि = even then
  • आवश्यकं न आसीत् । = It was not necessary.
  • तिष्ठतु भोः । = Be here for some more time.
  • स्मरति किल ? = Remember, don't you?
  • तथा किमपि नास्ति । = No, it is not so.
  • कथं अस्ति भवान् ? = How are you?
  • न विस्मरतु । = Don't forget.
  • अन्यच्च = besides
  • तदनन्तरम् = then
  • तावदेव किल ? = Is it only so much?
  • महान् सन्तोषः । = Very happy about it.
  • तत् तथा न ? = Is it not so?
  • तस्य कः अर्थः ? = What does it mean?
  • आं भोः । = Yes, Dear, Sir.
  • एवमेव = just
  • अहं देवालयं/कार्यालयं/विपणिं गच्छामि । = I am going to temple/office/market.
  • किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
  • भवन्तं कुत्रापि दृष्टवान्। = I remember to have seen you somewhere.
  • भवान् सम्भाषणशिबिरं आगतवान् वा ? = Have you come to the conversation camp ?
ध्यातव्यं: Note:
  • शब्दाः 'भवान्/भवती' is used for the convenience of Samskrita conversation learning.
  • The verb used for 'भवान्/भवती' is III Person Singular instead of II Person singular.
  • तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
  • 'तर्हि तत्रैव दृष्टवान् |= I must have seen you there in that case.
 

SanskAI

Administrator
Staff member

सरल वाक्यानि (Simple sentences)​

  • तथैव अस्तु । = Let it be so/so be it.
  • जानामि भोः । = I know it.
  • आम्, तत् सत्यम् । = Yes, that is right.
  • समीचीना सूचना । = A good suggestion indeed.
  • किञ्चित् एव । = A little.
  • किमर्थं तद् न भवति ? = Why can't that be done ?
  • भवतु नाम । = Leave it at that.
  • ओहो ! तथा वा ? = Oh! Is that so ?
  • एवमपि अस्ति वा ? = Is it like this ?
  • अथ किम् ? = Then ?
  • नैव किल ! = No
  • भवतु ! = Yes
  • आगच्छन्तु । = Come in.
  • उपविशन्तु । = Please sit down.
  • सर्वथा मास्तु । = Definitely no.
  • अस्तु वा ? = Can that be so ?
  • किमर्थं भोः ? = Why ?
  • प्राप्तं किल ? = You have got it, haven't you ?
 

SanskAI

Administrator
Staff member

सामान्य वाक्यानि (Ordinary sentences)​

  • प्रयत्नं करिष्यामि । = I will try.
  • न शक्यते भोः । = No, I can't.
  • तथा न वदतु । = Don't say that.
  • तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it.
  • तद् अहं न ज्ञातवान् । = I didn't know that.
  • कदा ददाति ? = When are you going to give me ?
  • अहं कथं वदामि 'कदा इति' ? = How can I say when ?
  • तथा भवति वा ? = Can that be so ?
  • भवतः समयावकाशः अस्ति वा ? = Are you free ?
  • अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ?
  • अरे ! पादस्य / हस्तस्य किं अभवत् ? = Oh! What happened to your legs/arms?
  • बहुदिनेभ्यः ते परिचिताः। = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is used for a VVIP))
  • तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ?
  • भवान् न उक्तवान् एव । = You have not told me..
  • अहं किं करोमि ? = What can I do ?
  • अहं न जानामि । = I don't know.
  • यथा भवान् इच्छति तथा । = As you wish/say.
  • भवतु, चिन्तां न करोतु = Yes, don't bother.
  • तेन किमपि न सिध्यति । = There is no use/nothing hppenns on account of that.
  • सः सर्वथा अप्रयोजकः । = He is good for nothing.
  • पुनरपि एकवारं प्रयत्नं कुर्मः । = Let us try once more.
  • मौनमेव उचितम् । = Better be quiet.
  • तत्र अहं किमपि न वदामि । = I do not want to say anything in this regard/No comments, please/I must think before I say anything.
  • तर्हि समीचीनम् । = O.K. if that is so.
  • एवं चेत् कथम् ? = How then, if it is so ?
  • मां किञ्चित् स्मारयतु । = Please remind me.
  • तं अहं सम्यक् जानामि । = I know him well.
  • तदानीमेव उक्तवान् किल ? = Haven't I told you already ?
  • कदा उक्तवान् भोः ? = When did you say so ?
  • यत्किमपि भवतु । = Happen what may.
  • सः बहु समीचीनः = He is a good fellow.
  • सः बहु रूक्षः । = He is very rough.
  • तद्विषये चिन्ता मास्तु । = Don't worry about that.
  • तथैव इति न नियमः । = It is not like that.
  • कर्तुं शक्यं, किञ्चित् समयः अपेक्षते । = I/We can do it, but require time.
  • न्यूनातिन्यूनं एतावत् तु कृतवान् ! = At least he has done this much !
  • द्रष्टुं एव न शक्यते । = Can't see it.
  • तत्रैव कुत्रापि स्यात् । = It may be somewhere there.
  • यथार्थं वदामि । = I am telling the truth.
  • एवं भवितुं अर्हति । = This is O.K./all right.
  • कदाचित् एवमपि स्यात् । = It may be like this sometimes.
  • अहं तावदपि न जानामि वा ? = Don't I know that much ?
  • तत्र गत्वा किं करोति ? = What are you going to do there ?
  • पुनः आगच्छन्तु । = Come again.
  • मम किमपि क्लेशः नास्ति । = It is no trouble (to me).
  • एतद् कष्टं न । = This is not difficult.
  • भोः, आनीतवान् वा ? = Have you brought it ?
  • भवतः कृते कः उक्तवान् ? = Who told you this ?
  • किञ्चिदनन्तरं आगच्छेत् । = He/It may come sometime later.
  • प्रायः तथा न स्यात् । = By and large, it may not be so.
  • चिन्ता मास्तु, श्वः ददातु । = It is no bother, return it tomorrow.
  • अहं पुनः सूचयामि । = I will let you know.
  • अद्य आसीत् वा ? = Was it today ?
  • अवश्यं आगच्छामि । = Certainly, I will come.
  • नागराजः अस्ति वा ? = Is Nagaraj in ?
  • किमर्थं तत् एवं अभवत् ? = Why did it happen so ?
  • तत्र आसीत् वा ? = Was it there ?
  • किमपि उक्तवान् वा ? = Did you say anything ?
  • कुतः आनीतवान् ? = Where did you bring it from ?
  • अन्यत् कार्यं किमपि नास्ति । = Don't have any other work.
  • मम वचनं शृणोतु । = Please listen to me.
  • एतत् सत्यं किल ? = It is true, isn't it ?
  • तद् अहं अपि जानामि । = I know it myself.
  • तावद् आवश्यकं न । = It is not needed so badly.
  • भवतः का हानिः ? = What loss is it to you ?
  • किमर्थं एतावान् विलम्बः ? = Why are you late ?
  • यथेष्टं अस्ति । = Available in plenty.
  • भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ?
  • अस्य किं कारणम् ? = What is the reason for this ?
  • स्वयमेव करोति वा ? = Do you do it yourself ?
  • तत् न रोचते ? = I don't like it.
  • उक्तं एव वदति सः । = He has been repeating the same thing.
  • अन्यथा बहु कष्टम् । = It will be a big botheration if it is not so.
  • किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ?
  • स्पष्टं न जानामि । = Don't know exactly.
  • निश्चयः नास्ति । = Not sure.
  • कुत्र आसीत् भवान् ? = Where were you ?
  • भीतिः मास्तु । = Don't get frightened.
  • भयस्य कारणं नास्ति । = Not to fear.
  • तदहं बहु इच्छामि = I like that very much.
  • कियत् लज्जास्पदम् ? = What a shame ?
  • सः मम दोषः न । = It is not my fault.
  • मम तु आक्षेपः नास्ति । = I have no objection.
  • सः शीघ्रकोपी । = He is short-tempered.
  • तीव्रं मा परिगणयतु । = Don't take it seriously.
  • आगतः एषऽवराकः । = Camped here.(?)
  • युक्ते समये आगतवान् । = you have come at the right time.
  • बहु जल्पति भोः । = He talks too much.
  • एषा केवलं किंवदन्ती । = It is just gossip.
  • किमपि न भवति । = Nothing happens.
  • एवमेव आगतवान् । = Just came to call on you.
  • विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ?
  • भवतः वचनं सत्यम् । = You are right.
  • मम वचनं कः शृणोति ? = Who listens to me ?
  • तदा तद् न स्फुरितम् । = It did not flash me then.
  • किमर्थं तावती चिन्ता ? = Why so much botheration ?
  • भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is ?
  • छे, एवं न भवितव्यं आसीत् । = Tsh, it should not have happened.
  • अन्यथा न चिन्तयतु । = Don't mistake me.
 

SanskAI

Administrator
Staff member

मित्र मिलनम् (Meeting the friends )​

  • नमोनमः । = Good morning/afternoon/evening
  • किं भोः, दर्शनमेव नास्ति ! = Hello, didn't see you for long !
  • नैव, अत्रैव सञ्चरामि किल ! = No, I have been moving about right here !
  • किं भोः, वार्ता एव नास्ति ? = Hello, not to be seen for a long time !
  • किं भोः, एकं पत्रं अपि नास्ति ? = Hey, You haven't even written a letter !
  • वयं सर्वे विस्मृताः वा ? = You have forgotten us all, Haven't you ?
  • कथं विस्मरणं भवति भोः ? = How can I forget you ?
  • भवतः सङ्केतं एव न जानामि स्म। = I didn't know your address.
  • महाजनः संवृत्तः भवान् ! = you have become a big man !
  • भवान् एव वा ! दूरतः न ज्ञातम् । = Is it you ? I couldn't recognise you from a distance.
  • ह्यः भवन्तं स्मृतवान् । = I remembered you yesterday.
  • किं अत्र आगमनम् ? = What made you come here ?
  • अत्रैव किञ्चित् कार्यं अस्ति । = I have some work here.
  • त्वरितं कार्यं आसीत् | अतः आगतवान् । = I am here as I have some urgent work.
  • बहुकालतः प्रतीक्षां करोमि । = I have been waiting for you for a long time.
  • यानं न प्राप्तं, अत एव विलम्बः । = Could not get the bus,hence late.
  • आगच्छतु भोः, गृहं गच्छामः । = Come, let us go home.
  • इदानीं वा, समयः नास्ति भोः । = Now? No time, you know.
  • श्वः सायं मिलामः वा ? = Shall we meet tomorrow evening ?
  • अवश्यं तत्रैव आगच्छामि । = I'll come there without fail.
  • इदानीं कुत्र उद्योगः ? = Where do you work now ?
  • यन्त्राकारे उद्योगः । = I work in a factory.
  • ग्रामे अध्यापकः अस्मि । = I am a teacher in a village.
  • इदानीं कुत्र वासः ? = Where are you put up ?
  • एषः मम गृहसङ्केतः । = This is my address.
  • यानं आगतं, आगच्छामि । = Bus has come, bye, bye.
  • अस्तु, पुनः पश्यामः । = OK. Let us meet again.
  • पुनः अस्माकं मिलनं कदा ? = When shall we meet again ?
  • पुनः कदा मिलति भवान् ? = When are you going to meet me ? (again)
  • तद्दिने किमर्थं भवान् न आगतवान् ? = Why didn't you come that day ?
  • वयं आगतवन्तः एव । = We have already arrived.
  • भवतः समीपे संभाषणीयं अस्ति । = I have something to talk to you about.
  • भवान् अन्यथा गृहीतवान् । = You have mistaken me.
  • भवन्तं बहु प्रतीक्षितवान् । = I very much expected you.
  • बहुकालतः तस्य वार्ता एव नास्ति । = No news from him for days.
  • भवतः पत्रं इदानीं एव लब्धम् । = I have just received your letter.
  • किञ्चिद्दूरं अहमपि आगच्छामि । = I will walk with you for some distance.
  • मिलित्वा गच्छामः । = Let us go together.
  • तिष्ठतु भोः, अर्धार्धं काफी पिबामः । = Wait, let's have a by-two coffee (It appears to mean sharing one cup of coffee between two persons)
  • अस्तु, पिबामः । = Fine, let us have it.
  • स्थातुं समयः नास्ति । = No time to stay.
  • गमनात् अनुक्षणमेव पत्रं लिखतु । = Write as soon as you reach there.
  • पुनः कदाचित् पश्यामि । = Meet you again.
  • यदा कदा वा भवतु, अहं सिद्धः । = I am ready any day.
  • तेषां कृते मम शुभाशयान् निवेदयतु । = Convey my good wishes to them/*him(Only if that person is a VIP).
  • किं भोः, एवं वदति ? = Hey, why do you say so ?
  • किञ्चित् कालं तिष्ठतु । = Please wait for some time.
  • भवान् एव परिशीलयतु । = Think about it, yourself.
  • अत्र पत्रालयः कुत्र अस्ति ? = Where is the post office, here ?
  • कियद्दूरे अस्ति ? = How far is it ?
  • वित्तकोषः कियद्दूरे अस्ति ? = How far is the bank ?
  • किमर्थं एवं त्वरा (संभ्रमः) ? = Why so much of confusion ?
  • इतोऽपि समयः अस्ति किल ? = There is still time, isn't it ?
  • सर्वस्य अपि मितिः भवेत् । = There should be some limit for everything.
  • कियद् इति दातुं शक्यम् ? = How much can I give him ?
  • कस्मिन् समये प्रतीक्षणीयम् ? = When shall I expect ?
  • गृहे उपविश्य किं करोति ? = What are you going to do by sitting at home ?
  • भवतः परिचयः एव न लब्धः । = Could not recognize you.
  • किं भोः, बहु कृशः जातः ? = Hey, You have become very weak.
  • अवश्यं मम गृहं आगन्तव्यम् । = Please do call on us.
  • सः सर्वत्र दर्वीं चालयति । = He pokes his nose everywhere.
  • यथा भवान् इच्छति । = I am game for whatever you say.
  • परिहासाय उक्तवान् भोः । = I said it in fun, You know.
  • एषः भवतः अपराधः न । = It is not your fault.
  • नैव, चिन्ता नास्ति । = No, no trouble/botheration.
  • वयं इदानीं अन्यद्गृहे स्मः । = We live in a different home now/Changed our residence.
  • भवान् मम अपेक्षया ज्येष्ठः वा ? = Are you elder to me ?
  • ओहो, मम अपेक्षया कनिष्ठः वा ? = Younger to me, is it ?
  • भवान् विवाहितः वा ? = Are you married ?
  • नैव, इदानीमपि एकाकी । = No, still a bachelor.
  • भवतः पिता कुत्र कार्यं करोति ? = Where does your father work ?
  • सः वर्षद्वयात् पूर्वमेव निवृत्तः । = He retired two years ago.
  • सः वृद्धः इव भाति । = He looks aged.
  • भवन्तः सर्वे सहैव वसन्ति वा ? = Do all of you live together ?
  • नैव, सर्वे विभक्ताः = No, we live separately.
  • भवतः वयः कियत् ? = How old are you ?
  • भवन्तः कति सहोदराः ? = How many brothers are you ?
  • वयं आहत्य अष्टजनाः । = We are eight.
  • भवान् एव ज्येष्ठः वा ? = Are you the eldest ?
  • मम एकः अग्रजः अस्ति । = I have an elder brother.
  • सः इदानीमपि बालः । = He is still a boy.
  • भवतः अनुजायाः कति वर्षाणि ? = How old is your younger sister ?
  • भवान् मा ददातु, मा स्वीकरोतु । = Neither give, nor take anything.
  • अन्यं कमपि न पृच्छतु । = Don't ask anyone except me.
  • तर्हि सर्वं दायित्वं भवतः एव । = In that case the entire responsibility is yours.
  • सर्वत्र अग्रे सरति । = He takes the initiative in everything.
  • भवन्तं गृहे एव पश्यामि । = I will see you in your house.
  • सः निष्ठावान् । = He is very orthodox.
  • यावदहं प्रत्यागच्छामि, तावद् प्रतीक्षां करोतु । = Wait till I come.
  • द्वयोः एकः आगच्छतु । = Either of the two come.
  • तस्य कृते विषयः निवेदितः वा ? = Have you informed him about the news?
  • तस्य कृते सः अत्यन्तं प्रीतिपात्रम् । = He is closely related to him.
  • भवता एतद् न कर्तव्यम् । = You should not do this.
  • यदि सः स्यात्\.\.\. । = Had he been here...
  • अवश्यं आगन्तव्यं, न विस्मर्तव्यम् । = Don't forget, please do come.
  • कियत् कालं तिष्ठति ? = How long will you be here?
  • एषा वार्ता मम कर्णमपि आगता । = I have heard of this news.
  • सः स्तोकात् मुक्तः । = He escaped narrowly.
  • भवन्तं द्रष्टुं सः पुनः आगच्छति किल ? = He is going to come back to see you. Isn't he ?
  • अहं किमर्थं असत्यं वदामि ? = Why should I tell a lie ?
  • भवान् अपि एवं वदति वा ? = Of all the people are you going to say this ?
  • भवान् एवं कर्तुं अर्हति वा ? = Can you do this ?
  • भवान् गच्छतु, मम किञ्चित् कार्यं अस्ति । = You proceed, I have some work.
  • वृथा भवान् चिन्तां करोति । = You just worry unnecessarily.
  • दैवेच्छा तदा आसीत्, किं कुर्मः ? = It was God's will. What shall we do ?
  • अहं अन्यद् उक्तवान्, भवान् अन्यद् गृहीतवान् । = I told you one thing. You understood it differently.
  • एतावद् अनृतं वदति इति न ज्ञातवान् । = I never expected that he would tell a lie.
  • प्रमादतः संवृत्तम्, न तु बुद्ध्या । = I did not do it purposely. It was just accidental.
  • एषः एकः शनिः । = This fellow is a bugbear.
  • भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यम् । = I cannot agree with all you say.
  • अहं गन्तुं न शक्नोमि । = I cannot go.
  • विषयस्य वर्धनं मास्तु । = Don't escalate the matter.
  • सर्वेऽपि पलायनशीलाः । = All these fellows take to their heels in the face of danger.
  • असम्बद्धं मा प्रलपतु । = Don't talk foolishly.
  • सर्वस्य अपि भवान् एव मूलम् । = You are the root cause of all these.
  • सुलभेन तस्य जाले पतितवान् । = He fell into his trap easily.
  • अस्माकं मिलनानन्तरं बहु कालः अतीतः । = It is a long time since we met.
  • इदानीं आगन्तुं न शक्यते । = I cannot come now.
  • भवान् अपि अङ्गीकरोति वा ? = Do you agree ?
  • भवान् अपि विश्वासं कृतवान् ? = Did you believe that ?
  • सः विश्वासयोग्यो वा ? = Is he trustworthy ?
  • किञ्चित् साहाय्यं करोति वा ? = Would you mind helping me a bit ?
  • समयः कथं अतिशीघ्रं अतीतः ! = How quickly the time passed !
  • युक्ते समये आगतवान् । = You have come at the right time.
  • एक निमेषं विलम्बः चेत् अहं गच्छामि स्म । = I would have left if you were late by a minute.
  • अहमपि भवता सह आगच्छामि वा ? = Shall I come with you ?
  • किञ्चित् कालं द्विचक्रिकां ददाति वा ? = Would you mind lending me your bicycle for a few minutes ?
  • इदानीं मया अपि अन्यत्र गन्तव्यम् । = I have to go somewhere now.
  • भवान् स्वकार्यं पश्यतु । = You mind your business.
  • शीघ्रं प्रत्यागच्छामि । = I'll be back in a short while.
  • आवश्यकं चेत् श्वः आनयामि । = If you want it, I shall bring it tomorow.
  • {\rm `}मास्तु{\rm '} इत्युक्तेऽपि सः न शृणोति । = I said no,but he doesn't listen to me.
 

SanskAI

Administrator
Staff member

प्रयाणम् (Journey)​

  • चीटिकां कुत्र क्रीणामि ? । = Where shall I buy a ticket ?
  • शीघ्रं आगच्छतु, यानं गच्छति । = Come quickly, the bus is about to start.
  • इदानीं एव एकं यानं गतम् । = A bus left just a few minutes ago.
  • अहं भवतः पार्श्वे उपविशामि । = I'll sit beside you.
  • किञ्चित् समञ्जनं कुर्मः । = Let us adjust a bit.
  • महान् जनसम्मर्दः । = Terrible rush.
  • परिवर्तं ददातु । = Give me the change.
  • अग्रे गच्छतु । = Go forward.
  • कदा वा निर्गच्छति ? । = What time does it start ?
  • शीघ्रं अवतरतु । = Get off quickly.
  • अग्रिमं निस्थानं अस्माकं वा ? । = Is the next station ours ?
  • मल्लेश्वरयानस्य का संख्या ? । = Which bus (Route No.) goes to Malleswaram?
  • किंसंख्याकं यानं जयनगरं गच्छति ? । = Which bus goes to Jayanagar ?
  • फलकमपि नास्ति, किमपि नास्ति । = No signboard, nothing.
  • अये, पादपथे आगच्छतु । = Hey, walk on the footpath.
  • मल्लेश्वरं गन्तुं कः मार्गः ? । = Which is the way to Malleswaram ?
  • बहुदूरे अस्ति वा ? । = Is it very far ?
  • एषः सङ्केतः कुत्र इति जानाति वा ? । = Could you possibly tell me where this address/place is ?
  • इतः केवलं दशनिमेषाणां गमनम् । = It is just ten minutes walk from here.
  • यानं न लब्धम् । = Missed the bus.
  • यानस्य निर्गमनाय इतोऽपि अर्धघण्टा अस्ति । = It is still half an hour before the bus starts.
  • यानं दशवादने आगच्छति । = The bus arrives at 10 0'clock.
  • पञ्चवादने एकं यानं अस्ति । = There is a bus at 5 0'clock.
  • यानं तदानीं एव आगत्य स्थितम् । = Bus has already arrived at the platform.
  • आरक्षणं नास्ति । = No reservation, please.
  • एवमेव अग्रे गच्छन्तु । = Go just along this road.
  • अत्रैव कुत्रचित् स्यात्, अन्वेषणं कुर्मः । = It will be somewhere here. Let us search for it.
  • तत्रैव अस्ति | तत्रैव स्यात् । = It is there./It might be there.
  • अहं न जानामि, अन्यं पृच्छतु । = I don't know, ask someone else, please.
  • भवान् शीघ्रं न गच्छति चेत् यानं न मिलति । = If you do not walk faster, you will miss the bus.
  • एषः मार्गः कुत्र गच्छति ? । = Where does this path lead to ?
  • भवान् आरक्षणं कृतवान् वा ? । = Have you reserved your seat ?
  • सर्वं स्वीकृतवान् किल ? । = You have taken everything, haven't you ?
  • कृपया सर्वबन्धकं स्वीकरोतु । = Please take your hold-all.
  • स्यूतम् = the bag.
  • एतद् = this.
  • चीटिकाम् = the ticket.
  • यानस्यूतम् = the air bag.
  • यानपेटिकाम् = the suitcase.
  • 'वनितास्यूतम् |= the vanity bag.
  • धनविषये जागरूको भवतु । = Be careful with your money.
  • ततः आगन्तुं एतावान् विलम्बः वा ? । = Such a long time to come here from there ?
  • एकं अपि यानं न आगतम् । = Not a single bus has come.
  • षष्टिसंख्याकं यानं गतं वा ? । = Has Route 60 bus gone ?
  • अहं इदानीं एव आगतवान् । = I have just arrived.
  • कीदृशः मार्गः अयम् ! । = What a road !
 

SanskAI

Administrator
Staff member

प्रवासतः प्रतिनिवर्तनम् (On Arrival)​

  • कदा आगतवान् ? = When did you come ?
  • अद्य प्रातः आगतवान् वा ? = Did you come this morning ?
  • कथं आसीत् प्रवासः ? = How was the journey ?(cf. my remarks on the `heading')
  • प्रवासे व्यवस्था समीचीना आसीत् वा ? = How were all the arrangements during the tour?
  • कति दिनानाम् ? = How many days ?
  • एकाकी गतवान् वा ? = Did you go alone ?
  • एकाकी किमर्थम् ? परिवारसमेतः गतवान् = | Why alone ? I went with my family.
  • दिनत्रयं तत्र स्थितवान् । = I stayed there for three days.
  • मार्गमध्ये अपघातः अभवत् । = There was an accident on the road.
  • विशेषतया कोऽपि न व्रणितः ? = No one was seriously injured ?
  • वस्तूनि तावन्ति एव वा ? = Only so much luggage ?
  • बहुधा श्रान्तः अस्मि भोः । = Very tired, you know.
  • त्रिचक्रिका किमर्थम् ? = Why rickshaw ?
  • लोकयानेन गच्छामः । = Let's go by bus.
  • लोकयानेन = By bus
  • त्रिचक्रिकायाम् = In a rickshaw
  • सुखयानेन = By luxury bus
  • पादाभ्याम् = On foot
  • सामिसुखयानेन = By semi-luxury bus
  • संलपन्तः = talking
  • कः प्रतीक्षते भोः ? = Who waits for ?
  • त्रिचक्रिकायां एव गच्छामः । = Let's go by rickshaw only.
  • किमर्थं वृथा व्ययः इति ? = Why waste money unnecessarily ?
  • बहुकालतः प्रतीक्षां करोमि । = I have been waiting for long.
  • कदा प्रस्थितः ? = When did you start ?
  • काशीं रामेश्वरं सर्वं दृष्टवान् वा ? = Have you visited Kashi and Rameshvar ?
  • कियत् सुन्दरं अस्तीति जानाति वा ? = Do you know how nice it is ?
  • महद् अद्भुतम् । = Fantastic.
 

SanskAI

Administrator
Staff member

छात्राः (Students)​

  • अत्रैव कलाशालायां पठामि । = Studying in a college here.
  • सिद्धता कथम् अस्ति ? = How is your preparation ?
  • पाठ्यभागः एव न समाप्तः । = Portions have not been completed.
  • गणितश्रवणमात्रेण मम शिरोवेदना । = Mathematics is a head-ache to me.
  • गाढं अभ्यासः वा ? = Studying very hard ?
  • अद्य किमपि न पठितवान् एव । = Couldn't read much today.
  • मम अक्षराणि न सुन्दराणि । = My handwriting is not good.
  • एतां कादम्बरीं पठितवान् वा ? = Have you read this novel ?
  • बहु सम्यक् अस्ति । = It is very interesting.
  • बहु पूर्वमेव पठितवान् । = I read it long ago.
  • शीघ्रं पठित्वा ददामि भोः । = I'll return it early after reading.
  • अद्य उत्थाने विलम्बः सञ्जातः । = Got up a bit late today.
  • अहं गृहे एव त्यक्त्वा आगतवान् । = I have left it at home.
  • अद्य तु विरामः । = Today is a holiday, anyway.
  • भवतः वर्गशिक्षकः कः ? = Who is your class teacher ?
  • अद्य समवस्त्रेण गन्तव्यं वा ? = Do we have to go in our uniforms today ?
  • यावत् शालां गतवान् तावत् घंठा ताडिता । = The bell went by the time I reached school.
  • श्रीमन्, अन्तः आगच्छामि वा ? = May I come in, sir ?
  • श्रीमन्, विशेषकक्ष्यां स्वीकरोति वा ? = Are you going to take a special class,sir ?
  • लेखनीं एकवारं ददाति वा ? = May I borrow your pen ?
  • टिप्पणीं किञ्चित् ददाति वा ? = Would you kindly lend me your notes ?
  • ह्यः एव गिरीशः स्वीकृतवान् । = Girish borrowed it yesterday.
  • अहं तद्दिने वर्गं न आगतवान् आसम् । = I did not attend the class that day.
  • आगच्छतु भोः, क्रीडामः । = Come on, let's play.
  • पठनीयं बहु अस्ति भोः । = I have a lot to read, you know.
  • किं मम पठनीयं नास्ति वा ? = Do you think I don't have anything to read ?
  • पदवी अशीतितमे वर्षे समापिता वा ? = Did you take your degree in the year 1980 ?
  • सम्यक् न स्मरामि भोः । = I do not remember exactly.
  • तिष्ठतु, अहं स्मरामि तत् । = Wait, I know it.
  • श्वः आरभ्य सहाध्ययनं कुर्मः । = Let us do combined study from tomorrow.
 

SanskAI

Administrator
Staff member

परीक्षा (Examination)​

  • परीक्षारम्भः कदा इति ज्ञातः वा ? = Do you know when is the examination going to begin ?
  • प्रवेशपत्रं स्वीकृतं वा ? = Have you taken the admission ticket ?
  • परीक्षा अग्रे गता । = The examination is postponed.
  • वेलापत्रिका आगता वा ? = Has the examination time table come ?
  • परीक्षा कथं आसीत् ? = How was the exam. ?
  • प्रश्न पत्रिका किञ्चित् क्लिष्टा आसीत् = The question paper was a bit tough.
  • अतीव सुलभा आसीत् । = It was very easy.
  • अहं प्रथमश्रेण्यां उत्तीर्णः । = I have passed in I class.
  • ह्यः फलितांशः प्रकटितः । = The result was announced yesterday.
  • अङ्कद्वयेन प्रथमश्रेणी न लब्धा । = I missed I class by two marks.
  • प्रश्नेषु विकल्पः एव नासीत् । = There was no choice at all.
  • फलितांशः श्वः ज्ञातः भविष्यति । = The result will be announced tomorrow.
  • रमेशः उत्तीर्णः वा ? = Has Ramesh passed ?
  • एकं पत्रं अवशिष्टं इति उक्तवान् । = He has told me that he has to complete one paper yet.
  • पठितं किमपि न स्मरामि भोः । = Don't remember what I have read, you know.
  • दशवारं पठितवान्, तथापि न स्मरामि । = I read it ten times, even then I do not remember.
  • प्रायशः द्वितीयश्रेणी लभ्येत । = Most probably, I will pass in II class.
  • अस्माकं गणे सर्वेऽपि उत्तीर्णाः । = Everyone passed in our batch.
  • प्रतिशतं कति अङ्काः प्राप्ताः ? = What is the percentage ?
 

SanskAI

Administrator
Staff member

चलनचित्रम् (Film)​

  • मासे कति चित्राणि पश्यति ? = How often do you go to films in a month ?
  • द्विवारं त्रिवारं वा ? = Twice or three times.
  • चित्रमन्दिरं पूर्णं आसीत् । = It was house-full.
  • महान् सम्मर्दः आसीत् । = There was a lot of rush.
  • चीटिका न लब्धा वा ? = couldn't you get a ticket ?
  • चित्रं कथं आसीत् ? = How was the film ?
  • करमुक्तं इति दृष्टवान् । = I just saw that it is tax-free.
  • कः निर्देशकः ? = Who is the director ?
  • तर्हि समीचीनं एव स्यात् । = In that case it should be good.
  • संवादः/कथा समीचीना अस्ति । = The dialogue/story is good.
  • एतद् द्वितीयवारं पश्यन् अस्मि । = I am seeing it for the second time.
  • एकमपि चित्रं सम्यक् नास्ति । = Not a single film is good.
  • परह्यः एव दृष्टवान् अहम् । = I saw it the day before yesterday.
  • केवलं निस्सारं, जामिता भवति । = Just bogus, terribly boring.
  • तर्हि किमर्थं द्रष्टव्यम् ? = Why should you see it then ?
  • मयापि एकवारं द्रष्टव्यम् । = I must see it once myself.
  • सर्वे मिलित्वा गतवन्तः वा ? = Did you all go together ?
  • केवलं धनं व्यर्थम् । = Just waste of money.
 

SanskAI

Administrator
Staff member

शिक्षकः (Teacher)​

  • भवतः वेतनश्रेणी का ? = What is your scale of pay ?
  • इदानीं सर्वत्र समाना किल ? = Now it is uniform everywhere, isn't it ?
  • प्राचार्यस्य आदेशं दृष्टवान् वा ? = Have you seen the Principal's memo (orders) ?
  • अहो! तत्तु सामान्यम् । = Oh!leave it. It is common.
  • अधिवेतनं लब्धं वा ? = Got your increment ?
  • लिपिकं दृष्टवान् वा? = Have you seen the clerk ?
  • एवं चेत् कथं जीवामः ? = How to live in that case ?
  • महान् कोलाहलः इति श्रुतवान् । = I heard, there was a lot of noise.
  • पत्रिका पठिता वा ? वेतनं वर्धितम् । = Read the newspaper. A rise in pay is announced.
  • कदा आरभ्य अन्वयः ? = When does it come into effect ?
  • इदानीं कक्ष्या अस्ति वा ? = Do you have classes now ?
  • अद्य कक्ष्यां न स्वीकरोमि, इति सूचयतु । = Tell them, I am not going to take classes today.
  • प्राचार्यः आगतः वा ? = Has the Principal come ?
  • अस्मिन् मासे कति विरामः ? = How many holidays (are there) this month ?
  • परश्वः विरामः अस्ति वा ? = Is there a holiday, the day after ?
  • प्रश्नपत्रिका सज्जीकृता वा? = Is the question paper ready ?
  • अस्मिन् वर्षे फलितांशः कथम् ? = How is the result this year ?
  • एतावन्तः अङ्काः कथं लब्धाः इति ? = How did he manage to get such high marks ?
  • परीक्षकाणां औदार्यम् । = Examiners' large heartedness.
  • परीक्षा अन्या, योग्यता अन्या ! = Examination is one thing, ability another.
  • मौल्यमापनार्थं गच्छति वा ? = Are you going for valuation ?
  • मौल्यमापनं कुत्र ? = Where is valuation going to be ?
  • अस्वस्थः अपि आगतवान् । = I am here in spite of being ill.
  • इदानींतन बालास्तु ! = The students of the present day !
  • अये अत्र आगच्छतु ! = Hey, come here.
  • गणितस्य अध्यापकः अस्ति वा पश्यतु । = See, if the mathematics teacher is there.
  • ते तु बालाः किल ! = After all they are students.
  • किं भोः सम्यक् पठति किल ! = You are studying well, aren't you ?
  • संशयः अस्ति चेत् पृच्छन्तु ! = Ask if you have any doubts !
  • ज्ञातं किल ! = Understand !
  • पुनः एकवारं वदतु । = Beg your pardon (This means please repeat).
  • एकं अपि गणितं न कृतवान् वा ? = Haven't you worked out a single sum ?
  • एवं चेत् परीक्षायां किं करोति ? = At this rate how are you going to face examination?
  • सेवकं किञ्चित् आह्वयतु । = Please call the peon.
  • घण्टा नादिता वा ? = Has the bell gone ?
  • टिप्पणीं लिखन्तु । = Please take the notes.
  • एकोऽपि न जानाति वा ? = Does not even one know the answer ?
  • भवान् ज्ञातवान् वा ? वदतु किञ्चित् । = Have you understood? Come on. Repeat.
  • अद्य एतावदेव पर्याप्तम् । = Enough for today.
  • अस्य अनुच्छेदस्य अन्ते समापयामः । = Let us stop at the end of this paragraph.
  • श्वः एतद् सम्यक् पठित्वा आगन्तव्यम् । = Read this well when you come tomorrow.
  • गृहे किमपि पठन्ति वा ? = Do you read anything at home ?
  • किं भोः कोलाहलः । = Whaat is the noise there about ?
  • ह्यः कियत् पर्यन्तं पाठितवान् ? = Where did we stop yesterday ?
 

SanskAI

Administrator
Staff member

स्त्रियः (Women)​

  • गृहकार्यं सर्वं समाप्तं वा ? = Finished your household work ?
  • समाप्तप्रायम् । = Yes, almost finished.
  • किं द्वित्रीणि दिनानि न दृष्टा ! = Not seen for two or three days ?
  • अहं मातृगृहं गतवती । = I had been to my mother's house.
  • एषु दिनेषु विमला मिलितवती वा ? = Have you met Vimala recently ?
  • कार्यालयतः तस्य आगमन समयः एषः । = It is time he comes from the office.
  • ममापि बहु कार्यं अस्ति । = I have a lot of work to do myself.
  • अतिथयः आगताः सन्ति । = Guests have come.
  • किञ्चित् {\rm `}शर्करां{\rm '} ददाति वा ? = Would you kindly lend me some sugar ?
  • शर्कराम् = sugar
  • क्षीरम् = milk
  • काफीचूर्णम् = coffee powder
  • सुपिष्टम् = wheat flour
  • पृथुकम् = beaten rice
  • चालनीम् = sieve
  • भवतः मातः किं करोति स्म ? = What was your mother doing ?
  • अद्य प्रातः आरभ्य बहु कार्याणि = I've had a lot of work since morning.
  • तेषां पुत्र्याः विवाहः निश्चितः इति श्रुतवान् = Their daughter's marriage is fixed, I think.
  • वरः विदेशे अस्ति । = The bridegroom is in a foreign country.
  • कन्यायाः कृते किं किं आभरणं दास्यन्ति ? = What jewellery are they going to give the bride ?
  • मृत्तैलं लब्धं वा ? = Got kerosene ?
  • मृत्तैलं विक्रीयते इति श्रुतवती । = I heard, they are selling kerosene.
 

SanskAI

Administrator
Staff member

पाकः (cooking)​

  • पाकः समाप्तः वा ? = Finished cooking ?
  • अद्य कः पाकः ? = What cooked today ?
  • भोजनं अभवत् वा ? = Have you had lunch ?
  • भवत्याः गृहं कश्चिद् आगत इव । = It seems someone has come to your house.
  • अन्यत् किमपि नास्ति केवलं सारः । = Nothing ewxcept soup.
  • अस्मत् गृहे एकैकस्य एकैका रुचिः । = In our house every one has his/her different tastes.
 

SanskAI

Administrator
Staff member

वेषभूषणानि (Dress, jewellery)​

  • भवत्याः शाटिका नूतना वा ? = Is your saree new ?
  • नैव, गतवर्षे एव क्रीतवती = No, it was brought last year.
  • तथापि नूतनं इव प्रतिभाति = Still it appears to be new.
  • एतादृशी शाटिका मम समीपे अपि अस्ति । = I have one saree like this.
  • अहं नूतनशाटिकां क्रीतवती = I have bought a new saree.
  • अञ्चलः बहु सम्यक् अस्ति । = The border is very beautiful.
  • इमां कुत्र क्रीतवती ? = Where did you buy this ?
  • अस्याः शाटिकायाः अनुरूपः चोलः न लब्धः । = I could not get a matching blouse for this saree.
  • वलयस्य विन्यासः आकर्षकः अस्ति । = The style of the bangles is really attractive.
  • शाटिकया सा प्रौढा इव दृश्यते । = This saree makes her look taller.
  • परिणाहः बहु न्यूनः । = Width is less.
  • अहं अपि एकां क्रेतुं इच्छामि । = I would like to buy one.
  • बहु सुन्दरं अस्ति किल एतद् ? = It is very good, isn't it ?
  • भ्वत्याः एतद् युज्यते । = This suits you well.
  • कियद् दत्तवती । = How much did you pay ?
  • मुम्बईतः मम अग्रजः आनीतवान् । = Brother brought it from Bombay.
 

SanskAI

Administrator
Staff member

कार्यालयः (Office)​

  • भवान् कति दिनानि विरामं स्वीकरोति ? = How many days of leave are you taking ?
  • एषु दिनेषु महान् कार्यभारः । = Of late the weight of work is unbearable.
  • इमां सूचनाफलके स्थापयतु । = Put this up on the notice board.
  • अत्र हस्तांकनं करोतु । = Sigh here, please.
  • सः विरामं स्वीकृतवान् । = He is on leave.
  • अस्मिन् विषये पुनः अपि चिन्तयामि । = I will think about this again.
  • आगामि सप्ताहे मां पश्यतु । = See me next week.
  • अस्मिन् विषये अनन्तरं वदामि । = I'll tell you about it later.
  • एतत् अहं अवश्यं स्मरामि । = I'll certainly remember this.
  • भवदुक्तं सर्वं ज्ञातवान् भोः । = I have understood what you said.
  • अत्र तस्य एव सर्वाधिकारः । = He is all in all here.
  • मम कृते काऽपि दूरवाणी आगता वा ? = Any phone calls for me ?
  • भवतः कृते दूरवाणी आगता आसीत् । = There was a phone call for you.
  • भवान् कस्मिन् स्थाने नियुक्तः अस्ति ? = Which post do you occupy in the office ?
  • एषः सर्वदा आगत्य पीडयति । = He troubles me always.
  • इदानीं समयः अतीतः । = It is getting late.
  • कृपया श्वः आगच्छतु । = Come tomorrow,please.
  • सः आगतवान् इति स्मरामि । = I remember, he came here.
  • पञ्चवादनपर्यन्तं अत्रैव आसीत् । = He was here till 5.00.
  • मां आहूतवान् वा ? = Did you call me?
  • तद् व्यवस्थां अहं करोमि । = I will see to that arrangement.
  • कार्यालयस्य समाप्तिः कदा ? = When does your office close ?
  • एतद्विषये श्वः पुनरपि स्मारयतु । = Remind me about this tomorrow.
  • तं अत्र आगन्तुं सूचयतु । = Ask him to come here.
  • किमर्थं इदानीं अपि कार्यं न आरब्धम् ? = Why hasn't the work begun ?
  • अन्येषां उपहासेनैव कालं यापयति । = He spends time criticizing othere.
  • मया किं करणीयं, वदतु । = Tell me what I should do.
  • अहं किं करोमि भोः ? = What shall I do ?
  • अस्तु, परिशीलयामः । = Be it so, let us see.
  • आगच्छतु, किञ्चित् काफीं पिबामः । = Come, let's have a cup of coffee.
  • भवान् शीघ्रं प्रत्यागच्छति वा ? = Are you going to be back soon ?
  • कृपया उपविशतु । = Please, sit down.
  • पञ्चनिमेषेषु एतद् कृत्वा ददामि । = I'll get it done in five minutes.
  • अद्य सः अत्र नास्ति किल । = As you know, he is not here today.
  • सः एकसप्ताहाभ्यन्तरे आगच्छेत् । = He may be back in a week's time.
 

SanskAI

Administrator
Staff member

आरोग्यम् (Health)​

  • मम आरोग्यं समीचीनं नास्ति । = I am not well.
  • महती पादवेदना । = Terrible leg pain.
  • सामान्यतः शिरोवेदना तदा तदा आगच्छति । = Generally I get headache now and then.
  • किञ्चित् ज्वरः इव । = Feel a little feverish...
  • वैद्यं पश्यतु । = Consult a doctor.
  • मम वमनशङ्का । = I feel like vomitting.
  • वैद्यस्य निर्देशनं स्वीकरोतु । = Get a doctor's advice.
  • किमर्थं कण्ठः अवरुद्धः ? = Why is there the blocking of the throat ?
  • अहं अतीव श्रान्तः । = I am very tired.
  • तस्य आरोग्यं कथं अस्ति ? = How is his health ?
  • अद्य किञ्चित् उत्तमा (देहस्थितिः ) । = A bit better today.
  • प्रातः आरभ्य लघु शिरोवेदना । = Slight head-ache since morning.
  • आरोग्यं तावत् सम्यक् नास्ति । = Somehow, my health is not good.
  • वैद्यं कदा दृष्टवान् ? = When did you see the doctor last ?
  • उत्साहः एव नास्ति भोः । = Don't feel active, you know.
  • ह्यः तु स्वस्थः आसीत् । = He was all right yesterday.
  • किं अद्य अहं भोजनं करोमि वा ? = Shall I have my meals today ?
  • अद्य ज्वरः कथं अस्ति ? = How is the fever today ?
  • यथावत् । = As usual.
  • तदा तदा उदरवेदना पीडयति किल ? = You get stomach-ache now and then, don't you ?
  • ज्वरपीडितः वा? कदा आरभ्य ? = Fever ? Since when ?
  • अय्यो! रक्तं स्रवति ! = Oh! Blood is coming out.
  • अपघाते सः जीवितः इत्येव विशेषः । = It is a miracle, he survived the accident.
  • सः चिकित्सालये प्रवेशितः । = He is admitted to the hospital.
  • मम शिरः भ्रमति इव । = I feel giddy.
 

SanskAI

Administrator
Staff member

समयः (Time)​

  • कः समयः ? = What is the time?
  • सपादचतुर्वादनम् । = A quarter past four.
  • द्विवादने अवश्यं गन्तव्यं अस्ति । = I must leave at 2.
  • त्रिवादने एकं यानं अस्ति । = There is a bus at three.
  • पादोन षड्वादने भवान् मिलति वा ? = Will you meet at a quarter to six ?
  • सार्धपञ्चवादने अहं गृहे तिष्ठामि । = I will be at home at half past five.
  • पञ्च ऊन दशवादने मम घटी स्थगिता । = My watch stoppped at 5 minutes to 10 o'clock.
  • संस्कृतवार्ताप्रसारः सायं दशाधिक षड्वादने । = The Sanskrit news bulletin is at 6.10 p.m.
  • सार्धं द्विघण्टात्मकः कार्यक्रमः । = It is a programme for two and a half hours.
  • षड्वादनपर्यन्तं तत्र किं करोति ? = What are you going to do there till six o'clock ?
  • शाला दशवादनतः किल ? = The school is from 10 o'clock, isn't it ?
  • इतोऽपि यथेष्टं समयः अस्ति । = Still there is a lot of time.
  • सः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति । = He does Yogasana from 6 A.M. to 7 A.M.
  • मम घटी निमेषद्वयं अग्रे सरति । = My watch goes two minutes fast every day.
  • समये आगच्छतु । = Come in time.
  • अरे! दशवादनम् ! = Oh! it is 10 o'clock.
  • भवतः आकाशवाणी समयः वा? = Is yours the radio time ?
  • इदानीं यथार्थः समयः कः ? = What is the exact time now ?
  • किमर्थं एतावान् विलम्बः ? = Why (are you) so late ?
  • इदानीं भवतः समयावकाशः अस्ति वा ? = Are you free now? (Can you spare a few minutes for me ?)
  • रविवासरे कः दिनाङ्कः ? = What date is Sunday ?
  • रविवासरे चतुर्विंशतितमदिनाङ्कः ? = Sunday is 24th ?
  • पञ्चदशदिनाङ्के कः वासरः ? = Which/What day is 15th ?
  • भवतः शाला कदा आरब्धा ? = When did your school begin ?
  • जून प्रथम दिनाङ्के । = On 1st June.
  • भवतः जन्मदिनाङ्कः कः ? = Which/What is your date of birth ?
  • अष्टादश दश षडशीतिः । = 18-10-63 (Should be 18-10-86).
 

SanskAI

Administrator
Staff member

दूरवाणी (Telephone)​

  • हरिः ओम् । = Hello
  • प्रतिष्ठानस्य कार्यालयः वा ? = Is it the Pratishthana office ?
  • राजुमहोदयस्य गृहं वा ? = Is it Mr. Raju's house ?
  • एषा षट् शून्य शून्य शून्य चत्वारि वा ? = Is it 60004 ?
  • कः तत्र ? (कः संभाषणं करोति ?) = Who is speaking, please ?
  • अहं कृष्णः । = I am Krishna, speaking.
  • कः अपेक्षितः ? = Whom do you want to speak to ?
  • कृष्णः गृहे अस्ति वा ? = Is Mr. Krishna at home ?
  • क्षम्यतां, सः गृहे नास्ति । = Sorry, he is not at home.
  • कृपया एतत् कृष्णं सूचयतु । = Would you kindly pass this on to Mr. Krishna ?
  • कृपया तं आह्वयति वा ? = Would you please call him ?
  • अस्तु, एकक्षणं तिष्ठतु । = Yes, wait a minute, please.
  • कः दूरवाणीं कृतवान् इति वदामि ? = Who shall I say phoned him up ?
  • सः श्वः आगच्छेत् । = He may be back, tomorrow.
  • अस्तु, श्वः पुनः दूरवाणीं करोमि । = O.K. I will ring him up again tomorrow.
  • किं, इदानीमपि न आगतवान् वा ? = What ? Hasn't he come yet ?
  • तस्य दूरवाणी संख्या का ? = What is his phone number ?
  • गृहे मिलेत् वा ? = Will he be available at home ?
  • मद्रासतः इदानीमपि न आगतवान् । = Not yet returned from Madras.
  • अवश्यं सूचयामि । = Certainly I will inform him.
  • स्थापयामि वा ? = Shall I put down the phone ? (Shall I hang up ?).
  • किञ्चित् उच्चैः वदतु । = Speak louder, please.
 

SanskAI

Administrator
Staff member

वाणिज्यम् (Commerce)​

  • रूप्यकस्य कति फलानि ? = How many a rupee ?
  • एकैकस्य पञ्चविंशतिपैसाः । = 25 paise each, please.
  • रूप्यकस्य पञ्च । = Five per rupee.
  • शुद्धं नवनीतं ददातु । = Give me good butter, please.
  • पुस्तकानि समाप्तानि । = The book is out of stock.
  • एतद् पुस्तकं नास्ति वा ? = Don't you have this book ?
  • तण्डुलः सम्यक् नास्ति । = The rice is not good.
  • दशपैसाः न्यूनाः सन्ति । = The amount is short by 10 paise.
  • मम व्यवहारं समापयतु । = Please settle my account.
  • भवतः परीवृत्तिः कथमस्ति ? = How is your business ?
  • तत्र गमनं मास्तु भोः, सः बहुमूल्यं वदति। = He is very expensive, let us not go to him.
  • कृपया देयकं / प्राप्तिपत्रं ददातु । = Please give me the bill/receipt.
  • विंशतिरूप्यकाणि वा ? तर्हि मास्तु । = Is it Rs.20 ? Then I don't want it.
  • आवश्यकं आसीत्, परन्तु भवान् मूल्यं अधिकं वदति । = I wanted it, but you quote a very high price.
  • भवतः कृते इति न्यूनमूल्येन ददामि । = I am selling it at a lower price to you.
  • पार्श्वापणे पृच्छतु । = Please enquire at the next shop.
  • एतावत् न्यूनमूल्येन अन्यत्र कुत्रापि न लभ्यते । = You can't get it cheaper anywhere else.
  • एकपञ्चाशत् रू/ स्वीकुर्वन्तु । = Please take Rs.51.
  • नैव, तत्र विवादः एव नास्ति । = No, no haggling, please.
  • एतद् वस्त्रं कुत्र क्रीतवन्तः ? = Where did you buy this cloth ?
  • भवान् अधिकं (मूल्यं) दत्तवान् । = You paid more.
  • {\rm `}किलो{\rm '} कृते कति ? = How much is this per kilo ?
  • फेनकस्य मूल्यं कियत् ? = How much does this soap cost ?
  • {\rm `}किलो{\rm '} दालस्य कृते कति रूप्यकाणि ? = How much is the pulse per kilo ?
  • दन्तफेनः अस्ति वा ? = Have got toothpaste ?
  • तिष्ठतु, ददामि । = Please wait, I'll give you.
  • कति/कियत् ददामि ? = How much shall I give you ?
  • इदानीं मास्तु, अनन्तरं आगच्छामि । = Not now, I will come later.
  • एतद् समीचीनं अस्ति वा ? = Is it good ?
 

SanskAI

Administrator
Staff member

वातावरणम् (Weather)​

  • वायुः एव नास्ति। = The wind is still.
  • आरात्रि वृष्टिः आसीत् । = It rained for the whole night.
  • घर्मो घर्मः । = Very hot indeed.
  • किं भोः ! क्लिन्नः अस्ति ! = You have perspired all over.
  • प्रातः आरभ्य एवमेव वृष्टिः । = It has been raining like this since morning.
  • अद्य वृष्टिः भवति वा ? = Is it going to rain today ?
  • किं एषा उष्णता भोः ! = What sultry weather, you know.
  • शैत्यं अहो शैत्यं ! = It is very cold indeed.
  • महती वृष्टिः । = Heavy rain.
  • वृष्टितः एव भयम् । = I am frightened only of the rain.
  • दिने दिने शीतं अधिकं भवति । = The cold is increasing day by day.
  • यद्वा तद्वा वृष्टिः । = Too much rain/It is raining cats and dogs.
  • वायुरहो वायुः । = Too much of wind/Too windy.
  • अत्र वायुः सुष्ठु वाति । = Nice breeze here.
  • बहु औष्ण्यं किल ? = It is very hot, isn't it ?
  • अद्य किञ्चित् शैत्यं अधिकम् । = It is a bit colder today.
  • भवतः प्रदेशे वृष्टिः कथम् ? = Have you had rains in your place ?
  • कुत्रापि वृष्टिः नास्ति । = No sign of rain anywhere.
 

SanskAI

Administrator
Staff member

गृहसम्भाषणम् (Domestic)​

  • अद्य प्रातराशः का ? = What have you cooked for breakfast ?
  • अद्य पाको नाम पाकः (अद्यतन पाकः बहु सम्यक् अस्ति । = Today's cooking is really grand.
  • किमर्थं अद्य रुचिरेव नास्ति । = Why dishes are not tasty today ?
  • रुचिकरं नास्ति वा ? = Aren't they tasty, really ?
  • लवणं एव नास्ति । = No salt at all.
  • व्यञ्जने लवणं न्यूनम् । = This curry has no salt at all.
  • अन्नं बहु उष्णम् । = The rice is very hot.
  • तद् किञ्चित् परिवेषयतु । = Serve the other dish a bit more.
  • जलं पूरयतु । = Get me some water, please.
  • एकचषकं जलं आनयतु । = Get me a glass of water, please.
  • किञ्चित् व्यञ्जनं परिवेषयतु । = Get me some dry curry.
  • अन्नं = rice
  • क्वथितम् = Sambar
  • तक्रम् = buttermilk
  • व्यञ्जनम् = dry curry
  • सारः = soup
  • उपदंशम् = pickle
  • तैलम् = oil
  • उपसेचनम् = Chutney
  • लवणम् = salt
  • घृतम् = ghee
  • पर्पटम् = Pappadam
  • किं, न रोचते वा ? = Aren't they tasty ? Don't you like them ?
  • लवणं किञ्चित् अधिकम् = A bit too much of salt in it.
  • किं अम्ब, प्रतिदिनं सारः एव ? = Dear, why, only soup/Rasam every day ?
  • अद्य अपि सारः एव ? = Just soup today also ?
  • किं अम्ब ! कियत् परिवेषितवती ? = Dear, you have served a bit too much.
  • कियद् अस्ति तत् ? = Oh ! That is not much.
  • अम्ब ! किञ्चित् उपदंशं परिवेषयतु । = Mummy, get me some pickles, please.
  • अम्ब ! अद्य कदा वा भोजनम् ? = Mummy, What time are you going to serve lunch/dinner today ?
  • सावधानं परिवेषयतु । = Serve slowly, please.
  • अद्य भूरि भोजनम् । = Today we have a grand meal.
  • अधिकं जलं मा पिबतु, शीतं भवति । = Don't drink too much water. You will catch a cold.
  • अनेन व्यञ्जनं करणीयं आसीत् । = You should have cooked dry curry with this vegetable.
  • तेमनं न परिवेषितवती एव । = You have not served 'curd sambar' at all.
  • पुनः एकवारं पायसं परिवेषयतु । = May I have a second helping with 'payasam ' ?
  • उत्तिष्ठतु, भोजनं कुर्मः । = Get ready, please, let us have meals.
  • इदमिदानीं भोजनं समाप्तम् । = I have just had meals, thank you.
  • अहं रोटिकां न खादामि । = I do not eat 'chapathis'.
  • रोटिका अस्ति चेत् समीचीनं (अभविष्यत्) । = It would have been wonderful had there been 'chapatis'.
  • किं भोः, भोजनमेव न करोति ? = Why dear, you do not eat anything ?
  • अन्ने केवलं पाषाणाः । = A lot of stones in the rice.
  • दध्यन्नं परिवेषयामि वा ? = Shall I serve curd-rice ?
  • तक्रं न इच्छति वा ? = Don't you want buttermilk ?
  • भोजनं सम्यक् करोति चेत् क्रीडनकं ददामि । = Eat well, please. I will give a doll.
  • तेषां गृहे किं खादितवान् ? = What did you eat in their house ?
  • शीघ्रं भोजनं करोतु, विलम्बः अभवत् । = It is getting late, eat quickly.
  • इदानीं मास्तु, अनन्तरं ददामि । = Not now, I will give it to you later.
  • किञ्चित् वा दध्यन्नस्य भोजनं करोतु । = Eat at least a little curd-rice.
  • अद्य मधुरभक्ष्यं किम् ? = What sweets have you prepared today ?
  • बहु मधुरम् । = It is too sweet.
  • अम्ब, बुबुक्षा भवति । = Mummy, I am hungry.
  • मम तु इदानीं अतीव बुबुक्षा । = I am very hungry.
  • भोजनं सिद्धं वा ? शालायाः विलम्बः भवति । = Have you finished eating? It is getting late for school.
  • भोजनं कृत्वा निद्रां करोतु । = Have a nap after meals.
  • अस्तु, परिवेषणं करोमि । = Yes, I am going to serve in a minute.
  • किञ्चित् स्वीकरोतु । = Take a little.
  • मास्तु, अधिकं भवति । = No, thank you. It is too much for me.
  • परिवेषणार्थं कियान् विलम्बः ? = Dear, how long do you take to serve ?
  • यावद् रोचते तावदेव स्वीकरोतु । = Eat only what you can.
  • सर्वे मिलित्वा भोजनं कुर्मः । = Let us eat together.
  • अय्यो, घृतं एव न परिवेषितवती अहम्। = My goodness ! I haven't served ghee at all.
  • भवता वक्तव्यं आसीत् किल ? = Shouldn't you have told me that ?
  • कियान् विलम्बः भोः, शीघ्रं आगच्छतु । = How long do you take,come quickly.
  • सः इदानीं अपि न आगतवान् वा ? = Hasn't he come yet ?
  • स्थालिका स्थापिता वा ? = Have you laid the table ? (Have you set the plates for meals ?)
  • स्थालिका एव न स्थापिता ! = You haven't laid the table yet !
  • लवणं किञ्चित् योजयतु, सम्यक् भवति । = Add some salt. It will be O.K.
  • हस्तं प्रक्षाल्य उपविशतु । = Wash (the hand ) before you come for meals.
  • मास्तु, यथेष्टं अभवत् । = No, thank you, I have had enough.
  • सङ्कोचः मास्तु, आवश्यकं चेत् पृच्छतु । = Please feel at home. Ask for anything you want.
  • न, मम सङ्कोचः एव नास्ति । = No, I do not have any reservations.
  • किञ्चित् । = A little more.
  • अम्ब, अत्र किञ्चित् परिवेषयतु । = Mummy, get me some more.
  • कः लवणं आवश्यकं इति उक्तवान् ? = Who has asked for salt ?
  • क्वथितापेक्षया सारः एव रुचिकरः । = The soup is tastier than the `sambar'.
  • एकैकशः वदतु नाम । = Speak one at a time, please.
  • विना शब्दं भोजनं कुर्वन्तु नाम । = Eat without making too much noise.
  • प्रथमः कः ? सः वा भवान् वा ? = Who is first ? He or you ?
  • पाकः शीतलं भवति । = Dishes are getting colder.
  • पाकः तदानीं एव सिद्धः । = Lunch/Dinner is ready.
  • व्याघरणं कृतं चेत् पाकः सिद्धः । = Everything is ready. I have to season the curry, that is all.(?)
  • शाकः नास्ति, अहं किं करोमि ? = No vegetables, what can I do ?
  • भवती पक्तुं एव न जानाति अम्ब ! = Mummy, you do not know how to cook.
  • ह्यस्तनं व्यञ्जनं कियत् रुचिकरं आसीत् ! = How tasty was yesterday's dry curry !
  • कतिवारं उक्तवान् एतद् मह्यं न रोचते इति ? = How many times did I tell you that I don't like it.
  • तथा चेत् श्वः भवान् एव पाकं करोतु । = In that case you cook the food yourself tomorrow.
  • अस्य रुचिं पश्यतु । = Taste this, please.
  • 'क्षीरं दूषितम् |= Milk has become sour.
  • तूष्णीं भोजनं करोतु वा ? = Will you eat without comments ?
  • पुनः पुनः चर्वणं कृत्वा खादतु । = Chew the food well before you swallow it.
  • परिवेषणं कृतं, शीघ्रं आगच्छतु । = Food is already served. Come quickly.
  • भवान् किमपि न खादितवान् ? = You haven't eaten anything.
  • पुनः परिवेषयतु । = Serve again.
 

SanskAI

Administrator
Staff member

पितरः पुत्राः च (Fathers/sons/mothers)​

  • एतावत्पर्यन्तं कुत्र गतवान् ? = Where had you been so long ?
  • कुत्रापि न, अत्रैव आसम् । = I was just here.
  • पठनं किमपि नास्ति वा ? = Nothing to read ? (Don't you have anything to read ?)
  • वक्ता प्रष्टा कोऽपि नास्ति वा ? = Is there no one to keep you under check ?
  • सहस्रवारं उक्तं, श्रुतवान् वा ? = I told you a thousand times. Did you listen to me ?
  • मम गृहपाठः बहु अस्ति । = I have a lot of homework to do.
  • अद्य एव शुल्कं दातव्यं अस्ति । = I have to pay the fees right today.
  • अन्तिमदिनाङ्कः कदा ? = Which is the last date for payment of fees ?
  • अद्य एव दातव्यं वा ? = Have to pay it right today ?
  • किं, अद्य दातव्यं वा ? = What, do we have to pay it today ?
  • अम्ब, एकं नवीनं युतकं आवश्यकम् । = Mummy, I would like to have a new shirt.
  • गोविन्द, आपणं गत्वा आगच्छति वा ? = Govind, will you go to the shop to get something ?
  • अम्ब, वेणीबन्धं करोतु, शालायाः विलम्बः भवति । = Mummy, twine my plait, it is getting late for school.
  • कः समयः इति जानाति वा ? = Do you know what time it is now ?
  • किमर्थं विलम्बः ? = Why are you late ?
  • पितरं एकवारं आह्वयतु । = Please ask daddy to come here.
  • भवतः कृते कथनापेक्षया स्वयं करणं वरम् । = Better do the work myself rather than asking you to do it.
  • भवती अनन्तरं उपविशतु । = You sit down a little later.
  • तस्य कृते चत्वारि दत्तवती, मम कृते तु त्रीणि एव ! = You gave him four, only three to me.
  • सर्वं भवान् एव खादितवान् वा ? = Have you eaten everything yourself ?
  • एकं कार्यं कतिवारं वक्तव्यम् ? = How often should I tell you about that ?
  • कुत्रापि स्थापयति, अनन्तरं मां पृच्छति । = You misplace it somewhere and come and ask me.
  • भोजनसमये आह्वयामि, इदानीं गच्छतु । = I will call you during meal time, off you go now.
  • {\rm `}तेन सह न गच्छतु{\rm '} इति दशवारं उक्तवती । = I have asked you ten times not to go in his company.
  • पार्श्वगृहं गत्वा पत्रिकां आनयतु । = Get me the newspaper from our neighbour.
  • अहं सर्वं व्यवस्थितं स्थापयितुं, सः व्यस्तं कर्तुम् । = I keep things in order and he throws everything away.
  • अम्ब, किञ्चित् सीवनं करोतु । = Mummy, stitch this up, please.
  • कृपया एतद् बहिः क्षिपतु । = Please, throw this away.
  • शाकं किञ्चित् कर्तयित्वा ददातु । = Cut the vegetables, please.
  • एकवारं एव सर्वं वदतु भवती । = Tell me everything at one go.
  • भवान् धीमान्/कुशलः बालः । = You are a good boy.
  • अम्ब, अत्र किञ्चित् वेदना अस्ति । = Mummy, it pains me here.
  • निद्रां करोतु,सम्यक् भविष्यति । = Sleep well, you will be all right.
  • रात्रौ कषायं करोमि । = I'll make some concoction (medicine) at night.
  • पीत्वा शयनं करोतु । = You may drink it and then sleep.
  • इदानीं गत्वा किञ्चित् पठतु । = Go and read now.
  • किं, इदानीम् एव निद्रा वा ? = What ! feeling sleepy so early ?
  • {\rm `}गणिते दश अङ्काः एव{\rm '} इति स्मरति वा ? = Do you remember, you have secured only 10 marks in Mathematics ?
  • अम्ब, तान् अन्यत्र पठितुं वदतु । = Mummy, ask them to read in separate rooms.
  • एतावत् धनं न पर्याप्तम् । = This much money is not enough.
  • शिरसि तैलसमुक्षणं करोतु । = Please apply oil to my head.
  • निद्रया आन्दोलनं करोति, पश्यतु । = See, he is dozing.
  • शिशुः रोदिति । = The child is crying.
  • संमार्जनं कृतवती वा ? = Have you swept the floor ?
  • इदानीं अपि रङ्गवल्लीं न लिखितवती वा? = Haven't you yet drawn designs in front of the house ?
  • कतिवारं वक्तव्यम् ? = How often should I tell you ?
  • कुत्र गतवान् ? गृहे नास्ति वा ? = Where has he gone ? Isn't he at home ?
  • प्रत्युत्तरं न वदतु । = Don't answer back.
  • उक्तं न श्रुतवान् वा ? = Haven't you listened to what I told you ?
  • अद्यतन पत्रिकां ददातु । = Give me today's newspaper.
  • सः आगतवान्, एषः प्रस्थितवान् । = He has arrived and this fellow has started/departed.
  • कटं प्रसारयतु । = Spread the mat.
  • रजकः वस्त्रं नीतवान् वा ? = Has the washerman taken the clothes?
  • वस्त्राणि शुष्कयितुं प्रसारयतु । = Spread the clothes for drying.
  • गत्वा शयनं करोतु । = Go to bed and sleep.
  • एकं आसन्दं आनयतु । = Bring me a chair.
  • इदानीम् अपि निद्रा न आगता वा ? = Haven't you slept yet ?
  • पश्यतु, कः शब्दं करोति ? = see, who is making that noise ?
  • किमिदं, सर्वत्र अवकरः ? = What is this ? It is dirty everywhere.
  • द्वारं पिदधातु (द्वारपिधानं करोतु) । = Close the door, please.
  • एतद् किञ्चित्कालं गृह्णातु । = Hold it for some time.
  • मध्ये सम्भाषणं न करोतु । = Don't butt in when I speak.
  • कोलाहलं मा करोतु । = Don't make noise, be quiet.
  • दीपान् ज्वालयतु । = Put on the lights, please.
  • दीपान् निर्वापयतु । = Put off the lights, please.
  • व्यजनं चालयतु । = Put on the fan,please.
  • बहिः अन्धकारः, करदीपं गृहीत्वा गच्छतु । = It is dark outside, take the torch with you.
  • अवहितमनसा करणीयम् । = Do it with some interest, please.
  • श्रद्धया करणीयम् । = Do it with your heart in it, please.
  • तं यानं आरोप्य आगच्छतु । = Please see him on to the bus.
  • पाणिपादं प्रक्षालयतु । = Have a wash,please (Wash your hands and feet).
  • कुड्मान् योजयतु । = Button your shirt, please.
  • आरोग्यं निर्लक्ष्य मा पठतु । = Don't read too much and spoil your health.
  • इतः परं एवं न कर्तव्यम् । = Don't do this again.
  • द्राविडप्राणायामेन न वदतु, साक्षात् वदतु । = Don't go on beating about the bush, speak plainly.
  • सम्यक् दन्तधावनं करोतु । = Brush your teeth well.
  • विना कारणं कुप्यति । = You get angry and shout unnecessarily.
  • वृथा कालहरणं करोति । = You are wasting time.
  • मां न कोपयतु । = Don't enrage me.
  • हठं मा करोतु । = Don't be arrogant.
  • किमर्थं भवान् क्षुभ्यति ? = Why are you shouting ?
  • प्रथमं शिरोमार्जनं करोतु । = Dry your hair first.
  • आर्द्रवस्त्रं न धारयतु । = Don't put on wet clothes.
  • शीघ्रं स्नानं कृत्वा आगच्छतु । = Have your bath quickly.
  • भाण्डे जलं अस्ति वा ? = Is there water in the barrel ?
  • आकाशवाणीं चालयतु । = Put on the radio, please.
  • विविधभारतीं योजयतु । = Switch on to Vividhabharathi, please.
  • वार्ता समाप्ता वा ? = Is the news over ?
 

SanskAI

Administrator
Staff member

मातापितरः (Parents)​

  • अद्य किञ्चित्पूर्वं आगच्छन्ति वा ? = Will you come back home a bit early today, dear ?
  • किमर्थं ? कः विशेषः ? = Why? anything special ?
  • सायं आगमनसमये शाकं आनयन्ति वा ? = Bring home some leafy vegetable, will you ?
  • रविवासरे तान् आह्वयामः वा ? = Shall we invite them on Sunday ?
  • बालिका किमपि आवश्यकं इति वदति स्म । = The girl was asking for something.
  • अवश्यं स्मृत्वा आनयन्तु । = Please bring it without fail.
  • किमर्थं प्रतिदिनं विलम्बेन आगच्छन्ति ? = Why do you come late everyday ?
  • कस्मिन् समये आगच्छन्ति अद्य ? = What time will you be back today ?
  • कुञ्चिकां पार्श्वगृहे दत्वा गच्छामि । = I will leave the key with our neighbours.
  • किमिति पदे पदे आह्वयन्ति ? = Why are you calling me again and again ?
  • सर्वं तत्रैव अस्ति, किञ्चित् पश्यन्तु । = Everything is there. Look for them a bit more carefully, please.
  • भोजनार्थं कोऽपि विशेषः ? = Any special arrangement for meals ?
  • अद्य अस्माकं कृते काफी अस्ति वा ? = Is there going to be some coffee for us ?
  • इदानीम् अपि स्नानं न कृतम् ? = No bath yet ?
  • भवन्तः किल मास्तु इति उक्तवन्तः । = It is you who said you did not want it.
  • समये एकमपि/किमपि न मिलति । = You do not get anything when you need it badly.
  • वेतनं लब्धं वा ? = Got your salary ?
  • क्षीरार्थं अद्य एव दातव्यं अस्ति । = We have to pay the milk-man today.
  • ते सर्वदा कलहं कुर्वन्ति । = They always quarrel.
  • तथा किमर्थं वदति ? = Why do you say so ?
  • तत्र अस्ति वा नास्ति वा इति प्रथमं एव द्रष्टव्यम् । = You have to see first if it is there or not.
  • अहं कार्यालयं गच्छामि । = I am going to my office.
  • अस्य जतुलेपं कारयन्तु । = Get this vessel gilted.
  • मार्गे सौचिकं विचार्य गच्छन्तु । = Look up the tailor on your way.
 

SanskAI

Administrator
Staff member

सुताः (Children)​

  • मम लेखनीं स्वीकृतवान् वा ? = Have you taken my pen ?
  • पिता अस्ति, तूष्णीं उपविशन्तु । = Daddy is in, be quiet.
  • कृपया मनसि पठतु । = Read silently, please.
  • भगिनि, मम कृते गणितं पाठयति वा ? = Sister dear, will you teach me mathematics ?
  • 'मम शिक्षकः एवं एव पाठितवान् । = My teacher has taught one just this way.
  • भवतः लेखनी कुत्र ? = Where is your pen ?
  • मम छत्रं भवान् किमर्थं स्वीकृतवान् ? = Why did you take my umbrella ?
  • तस्य कृते किमर्थं दत्तवान् ? = Why did you give it to him ?
  • तत्कारणतः इदानीं अनुभवतु । = Now you suffer on account of that.
  • न, अहं पितरं सूचयामि । = No, I am going to tell daddy.
  • पठनं नास्ति, किमपि नास्ति, केवलं अटति । = Doesn't read at all, just roams about.
  • भवतः सर्वं अहं जानामि । = I know all your secrets.
  • भवती बहु पठति, जानामि । = You read a lot,I know.
  • अद्य भवतः मित्रं मार्गे मिलितः । = I met your friend on the way.
  • भवतः मित्रं अहं मिलितवान् = I met your friend.
  • सः किमपि उक्तवान् वा ? = Did he say anything ?
  • परीक्षा कदा इति स्मरति किल ? = You remember when your examination commences, don't you ?
  • रमेशः भवन्तं आह्वयति । = Ramesh is calling ypou.
  • पश्यतु, नासिका स्रवति । = Look, you have a running nose.
  • नासिकां स्वच्छं कृत्वा आगच्छतु । = Clean your nose, will you ?
  • वक्तव्यं आसीत्, करोमि स्म । = You should have told me, I would have done it.
  • अङ्कन्या मास्तु, लेखन्या लिखतु । = Write with your pen, not with a pencil.
  • तिष्ठतु, युतकं परिवर्त्य आगच्छामि । = Wait, I will just change the shirt.
  • एतद् युतकं बहु सम्पृक्तम् । = This shirt is a bit too small.
  • अपरं युतकं एवं नास्ति । = The other shirt is not so.
 

SanskAI

Administrator
Staff member

सङ्कीर्ण वाक्यानि (Miscellaneous sentences)​

  • उच्चत्या उभावपि समानौ । = Both are of the same height.
  • अस्माकं गृहे सर्वे अस्वस्थाः । = Everyone is ill in my house.
  • मशको मशकः ! = Too many mosquitoes.
  • मत्कुणो मत्कुणः । = Too many bugs.
  • मशकजालः कुत्र ? = Where is the mosquito net ?
  • अन्तः कोऽपि नास्ति वा ? = Isn't there any one at home ?
  • दूषितः कालः । = Times have changed for the worse.
  • कर्मकराः एव दुर्लभाः । = You don't get labourers at all.
  • महती घोरिका भोः महारावस्य । = This big fellow snores loudly.
 

SanskAI

Administrator
Staff member

अतिथिः (Guests)​

  • पानीयं किं ददामि ? = What would you like to have for a drink ?
  • तर्हि पानकं आनयामि । = O.K. I will bring juice.
  • भवान् काफीं पिबति उत चायम् ? = Do you prefer coffee or tea ?
  • किञ्चित् विश्रान्तिं अनुभवतु । = Have some rest, please.
  • अद्यैव गन्तव्यं वा ? = Do you have to leave right now ?
  • भोजनान्तरं गच्छतु । = Go after lunch.
  • दिनद्वयं तिष्ठतु भोः । = Stay for two days.
  • रात्रौ निद्रा सम्यक् आसीत् । = I had sound sleep last night.
  • रात्रौ निद्रा एव नास्ति भोः । = I did not have even a wink of sleep last night.
  • बहिः गतवान्, इदानीं आगच्छति । = He has gone out, will be back in a few minutes.
 

SanskAI

Administrator
Staff member

शुभाशयाः (Greetings)​

  • दीपावली शुभाशयाः । = Wish you a happy Deepavali.
  • युगादि शुभाशयाः । = Wish you a happy New Year.
  • मकरसङ्क्रमणस्य/पोङ्गल् शुभाशयाः । = Wish you a happy Sankranti/Pongal.
  • नववर्षस्य शुभाशयाः । = Hearty greetings for a happy New Year.
  • नववर्षं नवचैतन्यं ददातु । = Let the new year bring a new life.
  • भवतः वैवाहिकजीवनं शुभमयं भवतु । = Wish you a very happy married life.
  • नवदम्पत्योः वैवाहिकजीवनं सुमधुरं भूयात् । = Wish the couple a very happy married life.
  • सफलतायै अभिनन्दनम् । = Hearty congratulations on your success.
  • भवदीयः समारम्भः यशस्वी भवतु । = Wish the function a grand success.
  • शतं जीव शरदो वर्धमानाः । = May you live for one hundred years.
  • शुभाः ते पन्थानः । = Good bye (God be with you)
 
Top